________________
( २८२) तिक्कृतो नाम्नि । ५।१।७१। आशीविषये सज्ञायां गम्यमानायां धातोः तिक् कृत्संज्ञकाश्च प्रत्यया भवन्ति । शान्तिः । वीरभूः । वर्धमानः ।
कर्मणोऽण् । ५।१।७२। कर्मणः पराद् धातोः अण् प्रत्ययो भवति । कुम्भं करोतीति कुम्भकारः ।
शीलिकामिभक्ष्याचरीक्षिक्षमोणः । ५ । १ । ७३ ।। ___ कर्मणः परेभ्य एभ्यो धातुभ्यः कर्तरि णः प्रत्ययो भवति । धर्मशीला । धर्मकामा । वायुभक्षा । कल्याणमाचरति कल्याणाचारा । सुखप्रतीक्षा । बहुक्षमा । ___ गायोऽनुपसर्गात् टक् । ५ । १ । ७४ ।
कर्मणः परादनुपसर्गाद् गायतेष्टक् प्रत्ययो भवति । वक्रगी। उपसर्गात्तु खरुसंगायः ।
मुरासीधोः पित्रः।५।१।७२ । आभ्यां कर्मभ्यां परादनुपसर्गात् पिबतेष्टक भवति । सुरापी। सीधुपी।
आतो डोऽहावामः । ५ । १ । ७६ । कर्मणः परादनुपसर्गाद् हावामावर्जितादादन्ताद् धातोः कर्तरि डो भवति । गां ददाति गोदः । अहावाम इति किम् ? स्वर्गहायः, तन्तुवायः, धान्यमायः ।