SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ( ३६ ) त्रेस्त्रयः । १ । ४ । ३४ । आम्मम्बन्धिनः त्रिशब्दस्य त्रयादेशः स्यात् । त्रयाणाम् | त्रिषु । कतिशब्दो नित्यं बहुवचनान्तः त्रिषु लिङ्गेषु सदृशश्च । कृति + जस् इति स्थिते | डत्यतु संख्यावत् । १ । १ । ३९ । इतिप्रत्ययान्तमवन्तं च नाम संख्यावत् स्यात् । डतिष्णः संख्याया लुप् । १ । ४ । ५४ । डतिप्रत्ययान्तात् षकारान्ताद् नकारान्ताच्च संख्यावाचिनः परस्य जशसोलुप् स्यात् । कति । कति । कतिभिः । कतिभ्यः । कतिभ्यः । कतीनाम् । कतिषु । लुक् इत्यनेन सिद्धे लुब्बिधानं स्थानिवद्भावबाधनार्थम् । ईकारान्त पुंलिङ्गः सुश्रीशब्दः । सुश्रीः सुश्री + औ इति स्थिते । धातोरिवणोवर्णस्येयुव स्वरे प्रत्यये । २ । १ । ६० । 1 धातोरिवर्णोवर्णयोः स्वरादौ प्रत्यये परे यथासंख्यमियुवौ स्याताम् । सुश्रियौ । सुश्रियः । सुश्रियम् । सुश्रियौ । सुश्रियः । सुश्रिया । सुश्रीभ्याम् । सुश्रीभिः ' वेयुवोऽस्त्रियाः इत्यनेन श्रियै सुश्रिये । सुश्रीभ्याम् । सुश्रीभ्यः । सुश्रियाः सुश्रियः । सुश्रीभ्याम् । सुश्रीभ्यः । सुश्रियाः सुश्रियः । सुश्रियोः । सुश्रियाम् सुश्रीणाम् । सुश्रियां सुश्रियि । सुश्रियोः । सुश्रीषु । हे सुश्रीः
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy