________________
(३५) सखिभ्यः । सख्युः । सख्योः। सग्वीनाम् । सखि+कि इति स्थिते ।
केवलसखिपतेरौ।१।४।२६। इदुदन्ताभ्यां केवलसखिपतिभ्यां परस्य डेरौ इत्यादेशः स्यात्। सख्यौ । सख्योः । मखिषु । हे सखे । हे सखायौ । हे सखायः। एवं पतिः पती पतयः । पतिम् पती पतीन् । पत्या पतिभ्याम् पतिभिः । पत्ये पतिभ्याम् पतिभ्यः । पत्युः पतिभ्याम् पतिभ्यः । पत्युः पत्योः पतीनाम् । पत्यौ पत्योः पतिषु । केवलेति विशेषणात् समासे तु मुनिवद्-भूपतिः भूपती भूपतयः । भूपतिम् भूपती भूपतीन् । भूपतिना भूपतिभ्याम् भूपतिभिः । भूपतये भूपतिभ्याम् भूपतिभ्यः । भूपतेः भूपतिभ्याम् भूपतिभ्यः । भूपतेः भूपत्योः भूपतीनाम् । भूपतौ भूपत्योः भूपतिषु । एवं सुसखा सुसखायौ सुसखायः। सुसखायम् सुसखायौ सुसखीन् । सुसखिना सुसखिभ्याम् सुसखिभिः इत्यादयः । नित्यद्विवचनान्तो द्विशब्दःद्वि+औ इति स्थिते ।
___ आ देरः।२।१। ४१। द्विशब्दमभिव्याप्य त्यदादीनामन्त्यस्य तत्सम्बन्धिनि स्यादौ परे तसादौ च तद्धिते परेऽकारादेशः स्यात् । द्व+औ द्वौं । द्वौ। द्वाभ्याम् । द्वाभ्याम् । द्वाभ्याम् । द्वयोः। द्वयोः। त्रिशब्दो नित्यं बहुवचनान्तः। त्रयः। त्रीन् । त्रिभिः। त्रिभ्यः । त्रिभ्यः। त्रि+आम् इति स्थिते ।