SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ (३४) हे कुन्थो । हे कुन्थू । हे कुन्थवः । सखिशब्दस्य विशेषःसखि+सि इति स्थिते । ऋदुशनस्पुरुदंशोऽनेहसश्च से । १ । ४ । ८४ । . ऋकारान्तादुशनसः पुरुदंशसः इकारान्तसखिशब्दाच परस्य शेषस्य से देशः स्यात् । डित्त्वादन्त्यस्वरादेर्लोपे सखा। शेपस्येति विशेषणाद् हे सखे । सखि+औ इति स्थिते । सख्युरितोऽशावैत् । १ । ४ । ८३ । 'इदन्तस्य सखिशब्दस्य तत्सम्बन्धिनि वाऽन्यसम्बन्धिनि शिवर्जिते शेषे घुटि परे एकारान्तादेशः स्यात् । आयादेशे सखायौ । सखायः । सखायम् । सखायौ । सखीन् । सखि+टा इति स्थिते। न नाङिदेत् । १ । ४ । २७ । - केवलसखिपतिभ्यां परस्य टाप्रत्ययस्य नादेशः, डिति परे एकारश्चोक्तः स न स्यात् । सख्या । सखिभ्याम् । सखिभिः । सख्ये । सखिभ्याम् । सखिभ्यः । सखि+ङसि इति स्थिते ङकारस्येत्सब्ज्ञायां सत्याम् ' इवर्णादेः' इत्यादिना यत्वे सख्य+असू इति जाते। खितिखीतीय उर् । १।४।३६। खितिखीतीसम्बन्धिन इवर्णस्य स्थाने यो यकारस्तस्मात् परथोःसिङसोः स्याने उरादेशः स्यात् । सख्युः । सखिभ्याम् ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy