SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ ( २७७ ) गत्यर्थाकर्मकपित्रभुजेः । ५ । १ । ११ । भूतादौ यः क्तः स एभ्यः कर्तरि वा भवति । स ग्राम - गतः । असौ आसितः । ते पयः पीताः । तेऽन्नं भुक्ताः । पक्ष तेन ग्रामो गत इत्यादि । अर्थाच्चाधारे । ५ । १ । १२ । आहारार्थाद् गत्यर्थादेश्व यः क्तः स आधारे वा भवति । - इदमेषां जग्धम् । इदमेषां यातम् । इदमेषां शयितम् । इदमेषामासितम् ॥ इदं गवां पीतम् । इदं तेषां भुक्तम् । पक्षे तैरस्मिन् जग्धम् । एतैरस्मिन् यातम् । एभिरस्मिन् शयितम् आसितम् । गोभिरस्मिन् पीतम् । तैरस्मिन् भुक्तम् । गत्यर्थादीनां पक्षे कर्तर्यपि भवनात् एतेऽस्मिन् याताः । एतेऽस्मिन् शयिताः । गात्रोऽस्मिन् भुक्ता इत्यादि । भीमादयोऽपादाने । ५ । १ । १४ । भीमादयः शब्दा अपादाने निपात्यन्ते । बिभेति अस्मादिति भीमः, भयानकः । असरूपोऽपवादे बोत्सर्गः प्राक् क्तेः । १ । १ । १६ । 'एतत्सूत्रादारभ्य 'स्त्रियां क्तिः' इति सूत्रात् प्राग् योऽपवादस्तद्विषये असरूप उत्सर्गोऽपि प्रत्ययो वा भवति । अवश्यलाव्यम्, अवश्यलवितव्यम् । णक - तृचौ । १ । १ । ४८ ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy