________________
(२७८) धातोः परावेतौ भवतः । करोतीति कारकः, कर्ता । हारकः । खादकः । पाचकः । हर्ता । खादिता । पक्ता ।
.. अहे तृच् । ५ । ४ । ३७ । ___ अहें कर्तरि धातोस्तृच् भवति । भवान् छेदसूत्रस्य वोढा । कन्याया वोढा ।
___ अच् । ५ । १। ४९। धातोः कर्तरि अच् भवति । करः । हरः । पचः । भवः । ___णिन् चावश्यकाधमण्ये । ५ । ४ । ३६ ।
अवश्यं भाव आवश्यकम् , ऋणेऽधमः अधमर्णस्तस्य भाव आधमर्ण्यम् । आवश्यकाऽऽधमर्ययोः गम्यमानयोः धातोः कर्तरि णिन् कृत्याश्च भवन्ति। अवश्यं करोतीति कारी। हारी । अवश्यंकारी । अवश्यगेयः साम्नाम् । शतं दायी। सहस्रं दायी।
लिहादिभ्यः । ५ । १ । ५० । एभ्यो धातुभ्यः कर्तर्यच् प्रत्ययो भवति । लेढीति लेहः । शेषः ।
अचि । ३ । ४ । १५ । अचि प्रत्यये परे यङो लुब् भवति । चेच्यः । नेन्यः । . न वृद्धिश्चाविति विङल्लोपे । ४ । ३ । ११ । . .' अविति प्रत्यये परे यः कितो ङितश्च लोपस्तस्मिन् सति