________________
(२७६)
एते कर्तरि वा निपात्यन्ते । भवतीतिभव्यः, पक्षे भव्यमनेन। गायतीति गेयः साम्नाम् , पक्षे गेयानि सामानि । एवं जन्यः, जन्यमनेन । रम्यः, रम्यमनेन । आपात्यः, आपात्यमनेन । आप्लाव्यः, आप्लान्यमनेन । . प्रवचनीयादयः । ५।१।८।
एतेऽनीयप्रत्ययान्ताः कर्तरि वा निपात्यन्ते । प्रवक्तीति प्रवचनीयो गुरुः शास्त्रस्य, पक्षे प्रोच्यते इति प्रवचनीयं शास्त्रं गुरुणा। एवमुपस्थानीयः शिष्यः गुरोः, उपस्थानीयो गुरुः शिष्येण । श्लिषशीङ्स्थाऽऽसवसजनरुहजुभजेः क्तः । ५ । १।९।
एभ्यः क्तप्रत्ययः कर्तरि वा भवति । आश्लिष्टः चैत्रः कान्ताम् , आश्लिष्टा कान्ता चैत्रेण । अतिशयितो गुरुं शिष्यः, अतिशयितो गुरुः शिष्येण । उपस्थितो गुरु शिष्यः, उपस्थितो गुरुः शिष्येण । उपासिता गुरुं शिष्याः, शिष्यैरुपासितो गुरुः । अनूषिता गुरुं शिष्याः, शिष्यैरुनूषितो गुरुः । ते तामनुजाताः, तैः साऽनुजाता । चैत्रोऽश्चमारूढः, चैत्रेणाश्च आरूढः । ते कामुकास्तामनुजीर्णाः, तैः साऽनुजीर्णा । ते धनं विभक्ताः, तैः धनं विमक्तम् ।
__ आरम्भे । ५। १।१०। आरम्भार्थाद् धातोः भूतादौ यः क्तः स कर्तरि वा भवति । ते कटं प्रकृताः, पक्षे तैः कटः प्रकृतः ।