SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ ( २७५ ) अथ कृत्यभिन्नकृत्प्रत्ययप्रक्रिया । बहुलम् । ५ । १ । २ । निर्दिष्टादर्थादन्यस्मिन्नर्थे कृत्प्रत्यया बहुलं भवन्ति । पादाभ्यां ह्रियते पादहारकः । मुह्यते आत्माऽनेन मोहनीयं कर्म । सम्प्रबीयतेऽस्मै सम्प्रदानम् । कर्तरि । १ । १ । ३ । अर्थविशेषोक्ति विना कृत्प्रत्याः कर्तरि वेदितव्याः । करोतीति कर्ता, कारकः । व्याप्ये घुरकेलिमकृष्टपच्यम् । ५ । १ । ४ । घुर - केलिमौ प्रत्ययौ कृष्टपच्यश्च व्याप्ये कर्तरि भवन्ति । भज्यते स्वयमेवेति भङ्गुरं काष्टम् । भिदुरम् । विदुरः । पच्यन्ते स्वयमेवेति पचेलिमा माषाः । भिदेलिमाः । कृष्टे स्वयमेव पच्यन्त इति कृष्टपच्याः शालयः । ' संगतेऽर्थे अजये निपात्यम् ' अजर्यमायसंगतम्, अन्यत्र अजरः पटः । रुच्या व्यथ्यवास्तव्यम् । ५ । १ । ६ । एते कर्तरि निपात्यन्ते । रोचते इति रुच्यो धर्मः । न व्यथते इति अव्यथ्यो मुनिः । वसतीति वास्तव्यः । भव्यगेयजन्यरम्या पात्या प्लाव्यं नवा । ५ । १ । ७।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy