SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ एते सञ्ज्ञायां क्यबन्ता निपात्यन्ते। कुप्यं धनम् । भिद्यः उद्ध्यः । सिध्यः । तिष्यः । पुष्यः । युग्यं वाहनम् । आज्यं घृतम् । सूर्यो रविः। दृगस्तुजुषतिशासः । ५।१।४० । एभ्यः क्यब् भवति । आइत्यः । आवृत्यः । स्तुत्यः । जुष्यः । इत्यः । शिष्यः । इस्वस्य तः पित्कृति । ४ । ४ । ११३ । हस्वान्तस्य धातोः पिति कृति परे तोऽन्तो भवति । तथा चोदाहृतानि । ऋदुपान्त्यादकृपिचूदृचः । ५। १ । ४१ । कृपिवृतिऋचिवनिताद् ऋदुपान्त्याद् धातोः क्यब् भवति । वृत्यम् । गृध्यम् । वृध्यम् । अकृपीत्यादि किम् ? कल्प्यम् । चर्त्यम् । अय॑म् । कृषिमृजिशंसिगुहिदुहिजपो वा । ५ । १ । ४२ ॥ .. एभ्यः क्यब् वा भवति । कृत्यं, कार्यम् । वृष्यं, वर्ण्यम् । मृज्यं, मार्यम् । शस्यं, शंस्यम् । गुह्यं, गोह्यम् । दुह्यं, दोह्यम् । नयं, जाप्यं वा। जिविपून्यो हलिमुञ्जकल्के । ५ । १ । ४३ । जयतेः विपूर्वाभ्यां पूनीभ्यां च यथासंख्यं हलिमुञ्जकल्करूपेषु कर्मसु वाच्येषु क्यब् भवति । जित्यो हलिः । विपुयो मुञ्जः । विनीयः कल्कः । 18
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy