SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ ( २७२ ) चरेराङस्त्वगुरौ । ५ । १ । ३१ । अनुपसर्गाच्चरतेः आङ्पूर्वात् तु अगुरावयें यो भवति । चर्यः । आचर्यो देशः । गुरौ तु आचार्यः । 1 वर्षोपसर्यावद्यपण्यमुपेयर्तुमती गर्ह्य विक्रेये । ५ । १ वर्या 1 उपेयादिष्वर्थेष्वेते यथासंख्यं निपात्यन्ते । उपसर्या गौः । अवद्यं गर्ह्यम् । पण्या गौः । स्वामिवैश्येऽर्यः । ५ । १ । ३३ । स्वामिवैश्ययोर्वाच्ययोः ऋधातोः यः प्रत्ययो भवति । स्वामी, वैश्यः । आर्योऽन्यः । । ३२ । कन्या । अर्यः वहां करणे । ५ । १ । ३४ । वहेः करणे यो भवति । वह्यं शकटम् । अन्यत्र वाह्यम्, 1 नानो वदः क्यप् च । ५ । १ । ३५ । अनुपसर्गाद् नाम्नः पराद् वदतेः क्यप्यौ भवतः । ब्रह्मोद्यम् । ब्रह्मवद्यम् । 'भावे हत्याभूयौ निपात्यौ' ब्रह्महत्या, देवभूयम् । अग्निचित्या । ५ । १ । ३७ । अग्नेः परात् स्त्रीभावे चिनोतेः क्यब् भवति । अग्निचित्या । खेय - मृषोद्ये । ५ । १ । ३८ । एतौ क्यन्तौ साधू भवतः । खेयम् । मृषा उद्यते मृषोद्यम् । कुप्यभिद्योध्य सिध्यतिष्यपुष्ययुग्याज्यसूर्य नाम्नि | ५ | १ | ३९ |
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy