________________
(२७१)
याज्या दानर्चि। ५ ।१ । २६ । करणेदानय॑भिधेयायां यन्धातोः घ्यण् निपत्यिते । याज्या :
तव्यानीयौ । ५।१।२७ । धातोः परौ भावे कर्मणि एतौ भवतः । कर्तव्यम् । हर्तव्यः पठनीयम् ।
य एच्चातः । ५।१। २८ । स्वरान्ताद् धातोः यः प्रत्ययो भवति, आकारस्य चैकारः । चेयम् । हेयम् । धेयम् । देयम् । पेयम् । शकितकिचतियतिशसिसहियजिभाजपवर्गात् । ५।१।२९॥
एभ्यः पवर्गान्तेभ्यश्च धातुभ्यो यो भवति । शक्यः । तक्यम् । चत्यः । यत्यः । शस्यः । सह्यम् । यज्यम् । भज्यम् तप्यम् । गम्यः ।
क्षय्य-जय्यौ शक्तौ । ४ । ३ । ९० । एतौ शक्तौ गम्यमानायां यान्तौ निपात्येते । क्षय्यो व्याधिः । जय्यः शत्रुः । शक्ताविति किम् ? क्षेयं पापम् । जेयं मनः
__ क्रय्यः क्रयार्थे । ४ । ३ । ९१ । क्रयार्थे कय्य इति निपात्यते । क्रय्यः गौः । क्रय्यो इति किम् ? क्रेयं धान्यं न च प्रसारितम् ।
यममदगदोऽनुपसर्गात् । ५। १ । ३० । उपसर्गरहितेभ्य एभ्यो यः प्रत्ययो भवति । यम्यम् । मद्यम् । गद्यम् ।