________________
( २७०) आङ्पूर्वाभ्यां सुग्नमाभ्यां यौत्यादेश्च घ्यण् भवति । आसाव्यम् । पाव्यम् । वाप्यम् । राप्यम् । लाप्यम् । त्राप्यम् । डेप्यम् । दाभ्यम् । आचाम्यम् ।
वाऽऽधारेऽमावस्या । ५। १ । २१ । अमापूर्वाद् वस्धातोः आधारे घ्यण भवति, ह्रस्वश्च वा । अमा सह वसतः सूर्याचन्द्रमसौ यस्यां तिथौ सा अमावस्या, अमावास्या वा तिथिः ।
संचाय्यकुण्डपाय्यराजसूयं कतौ । ५।१ । २२ ।
एते क्रतावर्थे घ्यण्प्रत्ययान्ता निपात्यन्ते । संचाय्यः । कुण्डेन पीयते यस्मिन् स कुण्डपाय्यः । राजभिः सूयते राजसूयः यज्ञः ।
प्रणाय्यो निष्कामासम्मते । ५ । १ । २३ । प्रपूर्वाद् नयतेः घ्यणआयादेशश्च भवतः, निष्कामेऽसम्मते चार्थे । प्रणाय्यः शिष्यः, चौरो वा। घाय्यापाय्यसानाट्यनिकाय्यमृग्मानहविर्निवासे ।५।१।२४।
एते ऋगाद्यर्थेषु ध्यणन्ता यथासंख्यं निपात्यन्ते । धाय्या ऋक् । पाय्यं मानम् । सानाय्यं हविः । निकाय्यो निवासः । परिचाय्योपचाय्यानाय्यसम्राचित्यमग्नौ । ५। १ । २५ ।
एते अग्नावर्थे निपात्यन्ते । परिचाय्यः, उपचाय्यः, आनाय्यः, समूह्यः, चित्योऽग्निः ।