________________
.
..
( २३९) नमो नमः श्रीप्रमुधर्मसूरये । अथ कृदन्तप्रक्रिया।
अथ कृत्प्रत्ययान्तर्गता कृत्यप्रक्रिया । .. आ तुमोऽत्यादिः कृत् । ५।१।१।
तुमभिव्याप्य त्यादि वर्जयित्वा ये प्रत्ययास्ते कृत्संज्ञका भवन्ति । धनधात्यः।
ऋवर्णव्यधनान्ताद् घ्यण् ।५।१ । १७ ।
ऋवर्णान्ताद् व्यञ्जनान्ताच धातोः घ्यण भवति । कृत्यत्वात् 'तत्साप्यानाप्याद्' इति कर्मणि भावे च क्रियते यत् तत् कार्यम् । पच्यते इति पाक्यम् ' क्तेऽनिटश्चनोः कगौ ' इति सूत्रेण चस्य कत्वम् ।
पाणिसमवाभ्यां सृजः ।५।१ । १८ । - - .."
आभ्यां सृज्धातोः ध्यण भवति । पाणिभ्यां सृन्यते पाणिसर्या रज्जुः, समवसर्यो ।
उवर्णादावश्यके । ५। १ । १९ । उवर्णान्तादावश्यके गम्ये घ्यण् भवति । अवश्यं भूयते अवश्यभाव्यम् । आसुयुवपिरपिलपित्रपिडिपिदमिचम्यानमः । ५।१ । २०