SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ (२६३) ..... सूपपदेषु अश्रद्धाऽमर्षयोः धातोः सप्तमी भवति । न श्रद्दधे,ने क्षमे जातु तत्रभवान् सुरां पिबेत् । एवं यद् यदा यदि सुरां पिबेत् । क्षेपे च यच्च-यन्त्रे । ५ । ४ । १८ । यच्चयत्रयोरुपपदयोः क्षेपे अश्रद्धाऽमर्षयोश्च धातोः सप्तमी भवति । यच्च यत्र वा तत्रभवान् अस्मान् आक्रोशेत् । न श्रद्दधे, न क्षमे यच्च यत्र वा तत्रभवान् परपरिवादं कथयेत् । .. . चित्रे । ५।४ । १९ । आश्चर्ये गम्ये यच्च-यत्रयोरुपपदयोः सप्तमी धातोः भवति । चित्रमाश्चर्यं यच्च यत्र वा तत्रभवान् असेव्यं सेवेत । शेषे भविष्यन्त्ययदौ । ५ । ४ । २० । यच्चयत्राभ्यामन्यस्मिन्नुपपदे चित्रे गम्ये धातोः भविष्यन्ती भूवति, न तु यदिशब्दे । चित्रमाश्चर्यमन्धो नाम गिरिमारोक्ष्यति । - सप्तम्युवाप्यो|ढे । ५। ४ । २१ ।। बाढार्थयोरुताप्योरुपपदयोः धातोः सप्तमी भवति । उत कुर्याद अपि वा । बाढ इति किम् ?-उत दण्डः पतिष्यति । अपिधास्यति द्वारम् । सम्भावनेऽलमर्थे तदर्थानुक्तौ । ५ । ४ । २२ । अलमोऽर्थे शक्तौ यत् सम्भावनं तस्मिन् गम्ये अलमर्यायस्थाप्रयोगे धातोः सप्तमी भवति । अपि मासमुपवसेत् । अलमर्थ इति
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy