________________
(२६२)
वस्त्रमधारयिष्यत् । पक्षे यथाप्राप्तम् । भविष्यति क्रियातिपतने तु नित्यमेव क्रियातिपत्तिः । कथं नाम तत्रभवान विदेशभवं वस्त्रमधा- ' रयिष्यत् ।
किंवृत्ते सप्तमीभविष्यन्त्यौ । ५। ४ । १४ ।
किंवृत्ते उपपदे क्षेपे गम्ये धातोः सप्तमीभविष्यन्त्यौ भवतः । किं तत्रभवान् अनृतं ब्रूयात, वक्ष्यति वा । को नाम, कतरो नाम, कतमो नाम; यस्मै तत्रभवाननृतं ब्रूयात् , वक्ष्यति वा। - अश्रद्धाऽमर्षेऽन्यत्रापि । ५। ४ । १५ । । ___ अकिंवृत्ते किंवृत्ते चोपपदेऽश्रद्धाऽमर्षयोः गम्यमानयोः सप्तमीभविष्यन्त्यौ भवतः । न श्रद्दधे, न सम्भावयामि तत्रभवान् नाम अदत्तं गृह्णीयात् , ग्रहीष्यति वा । न श्रद्दधे किं तत्रभवान् अदतमाददीत, आदास्यते वा । न मर्षयामि, न क्षमे तत्रभवानदत्तं गृह्णीयात् , ग्रहीष्यति वा।
किंकिलास्त्यर्थयोर्भविष्यन्ती । ५। ४ । १६ । . किंकिले अस्त्यर्थे चोपपदेऽश्रद्धाऽमर्षयोर्गम्यमानयोः भविष्यन्ती भवति । न श्रद्दधे, न संभवयामि किंकिल नाम तत्रभवान् परदारान् उपकरिष्यते । न. श्रद्दधे, न मर्षयामि अस्ति नाम, भवति नाम, विद्यते नाम तत्रभवान् परदारानुपकरिष्यते ।
· जातु-पद्-यदा-यदो सप्तमी । ५ । ४। १७ ।