________________
(२६१)
भृते । ५।४।१०। - भूतार्थाद् धातोः क्रियातिपत्तौ सत्यां सप्तम्यर्थे क्रियातिपत्तिभवति । दृष्टो मयाऽन्नार्थी चंक्रम्यमाणस्तव पुत्रोऽपरश्चातिथ्यर्थी यदि स तेन दृष्टोऽभविष्यदुताभोक्ष्यत, अप्यभोक्ष्यत ।
वोतात् । ५।४ । ११ । 'सप्तम्यताप्योर्बाढे ' इति सूत्रे यदुतशब्दकथनं ततः प्राकू सप्तम्यर्थे क्रियातिपत्तौ सत्यां भूतार्थाद् धातोर्वा क्रियातिपत्तिर्भवति। कथं नाम संयतः सन्ननागाढे तत्र भवान् अब्रह्म असेविष्यत, धिम् गर्हामहे । पक्षे कयं सेवेत, घिग्गर्हामहे । उतात् प्रागिति किम्?कालो यदमोक्ष्यत भवान् ।
क्षेपेऽपिजात्वोर्वर्तमाना । ५ । ४ । १२ । - अपिजात्वोरुपपदयोः क्षेपे गम्ये धातोर्वर्तमाना भवति । अपि तत्रभवान् जन्तून हिनस्ति । नातु तत्रभवान् भूतानि हिनस्ति, घिग् गर्हामहे ।
कथमि सप्तमी च वा ।५।४।१३ । कथंशब्दे उपपदे क्षेपे गम्ये धातोः सप्तमी वर्तमाना च वा भवति। कथं नाम तत्र भवान् विदेशभवं वस्त्रं धारयेत् ,धारयति वा, गर्हामहे अन्याय्यमेतत् । पक्षे अदीधरत्, अधारयत्, धारयाश्वकार, धारयिता, धारयिष्यति । अत्र सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिः । कथं नाम तत्रभवान् विदेशमवं