________________
( २६० )
यदर्थस्तत्र वर्तमानाद् धातोः अनद्यतनविहितः प्रत्ययो न भवति । योऽयमध्वा गन्तव्यः, आ शत्रुञ्जयात् तस्य यदवरं वलभ्यास्तत्र द्विक्ष्यामहे मोदकान् ।
कालस्यानहोरात्राणाम् । ५ । ४ । ७ ।
कालस्य योऽवधिस्तद्वाचिन्युपपदे कालस्यैवार्वाग्भागे यो भविष्यदर्थस्तस्मिन् वर्तमानाद् धातोरनद्यतन विहितः प्रत्ययो न भवति । न चेत् सोऽर्वाग्भागोऽहोरात्राणाम् । योऽयमागामी संवत्सरस्तस्य यदवरमाग्रहायण्यास्तत्र जिनपूजां करिष्यामः । अनहोरात्राणामिति किम् ? - योऽयं मास आगामी तस्य योsवरः पञ्चदशरात्रस्तत्र युक्ता द्विरध्येतास्महे ।
परे वा । ५ । ४ । ८ ।
कालस्य योऽवधिस्तद्वाचिन्युपपदे कालस्यैवानहोरात्रसम्बन्धिनि परे भागे य एष्यदर्थस्तद्वृत्तेर्धातोरनद्यतनविहितः प्रत्ययो वा न भवति । आगामिनः संवत्सरस्याग्रहायण्याः परस्ताद् द्विः भाष्यमध्येष्यामहे, अध्येतास्महे वा ।
सप्तम्यर्थे क्रियातिपत्तौ क्रियातिपत्तिः । ५ । ४ ।९।
सप्तम्या अर्थोः निमित्तं हेतुफलकथनादिसामग्री । कुतश्चिद् वैगुण्यात् क्रियाऽनभिनिर्वृत्तौ सत्यामेष्यदर्थाद् धातोः सप्तम्यर्थे क्रियातिपत्तिर्भवति । असहकारः सम्पूर्णतयाऽभविष्यद् न परदेशिराज्यमस्मिन् वर्षेऽस्थास्यत् ।