SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ (२५९) पक्षे उपाध्यायश्चेदागमिष्यति, आगन्ता वा; एते तर्कमध्येष्यामहे, अध्येतास्महे वा। क्षिप्राशंसायोभविष्यन्ती-सप्तम्यौ । ५।४।३। क्षिप्राशंसायोरुपपदयोराशंस्यार्थाद् धातोः यथासंख्यं भविध्यन्तीसप्तम्यौ भवतः । उपाध्यायश्चेद् आगच्छति, आगमत् , आगमिष्यति, आगन्ता वा; तदा शीघ्रं क्षिप्रम् आशु एते सिद्धान्तमध्येष्यामहे । उपाध्यायश्चेदागच्छति, आगमिष्यति, आगमत् , आगन्ता वा; आशंसे, सम्भावये युक्तोऽधीयीय । सम्भावने सिद्धवत् । ५ । ४ । ४ । हेतोः सामर्थ्यस्य श्रद्धा सम्भावनम् , तस्मिन् विषयेऽसिद्धेऽपि वस्तुनि सिद्धवत् प्रत्यया भवन्ति । समये चेत् प्रयत्नोऽभूद उदभूवन् विभूतयः । ...... नानद्यतनः प्रबन्धासत्त्योः । ५।४।५। धात्वर्थस्य प्रबन्धे आसत्तौ च गम्यमानायां धातोरन्द्यतनविहितः प्रत्ययो न भवति । यावज्जीवं भृशमन्नमदात् , दास्यति वा । यदिदं पर्युषणापर्व अतिक्रान्तमेतस्मिन् जिनोत्सवः प्रावर्तिष्ट । येयं पौर्णमासी आगामिनी, एतस्यां जिनकल्याणकोत्सवः प्रवर्तिष्यते। एष्यत्यवधौ देशस्यार्वाग्भागे । ५ । ४।६। देशस्य योऽवधिस्तद्वाचिन्युपपदे देशस्यैवार्वाग्भागे य
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy