SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ ( २९८ ) , पञ्चम्या अर्थः प्रषादिस्तस्य हेतुरुपाध्यायागमनादिः तस्मि - नर्थे भविष्यत्कालिके वर्तमानाद् धातोर्वर्तमाना वा भवति । उपाध्यायश्चेदागच्छति, आगमिष्यति, आगन्ता वा; अथ त्वं भगवतीमधीष्व । सप्तमी चोर्ध्वमौहूर्तिके । ५ । ३ । १२ । , मुहूर्तादूर्ध्वं भव ऊर्ध्वमौहूर्तिकः तस्मिन् पञ्चम्यर्थहेतौ वत्स्र्यत्यर्थे वर्तमानाद् धातोः सप्तमी वर्तमाना च वा भवति ऊर्ध्वं मुहूर्तात् चेदुपाध्याय आगच्छेत्, आगच्छति, आगमिष्यति, आगन्ता वा; अथ त्वं नन्दिमधीष्व । सत्सामीप्ये सद्वद् वा । ६ । ४ । १ । समीपमेव सामीप्यम्, वर्तमानस्य सामीप्ये भूते भविष्यति चार्थे वर्तमानाद् धातोः वर्तमाना इव प्रत्यया वा भवन्ति । कढ़ा वत्स ! आगतोऽसि ?; अयमागच्छामि, आगच्छन्तमेव मां बित्त । पक्षे अयमागमम् आगच्छम् । कदा चैत्र ! गमिष्यसि ; एष गच्छामि, गच्छन्तमेव मां जानीत । पक्षे गमिष्यामि, गन्तास्मि, गमिष्यन्तं मां जानीत | , भूतवच्चाशंस्ये वा । ५ । ४ १२ । अनागतस्यार्थस्य प्राप्तुमिच्छा आशंसा तद्विषये आशंस्यः, तदर्थाद् धातोर्भूतवत् सद्वच्च प्रत्यया भवन्ति । उपाध्यायश्वेदागमत् ; एते तर्कमध्यगीष्महि । उपाध्याय श्वेदागच्छतिः एते तर्कमधीमहे ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy