SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ (२६४) किम् ?-निदेशस्थायी मे चैत्रः प्रायेण यास्यति । तदर्थानुक्ताविति किम् ?-शक्तः सिद्धपुत्रो धर्म करिष्यति । अयदि श्रद्धाधातौ नवा । ५ । ४ । २३ । सम्भावनार्थे धातावुपपदेऽलमर्थविषये सम्भावने गम्ये धातोः सप्तमी वा भवति, न तु यच्छब्दे । श्रद्दधे, संभावयामि मुञ्जीत भवान् , पक्षे भोक्ष्यते, अमुफ्त, अमुक्त। अयदीति किम् ? सम्भाक्यामि यद् मुजीत भवान् । श्रद्धाधाताविति किम् ?-अपि शिरसा पर्वत भिन्द्यात् । सतीच्छार्थात् । ५ । ४ । २४ । . सदर्थे इच्छार्थाद् धातोः सप्तमी वा भवति । इच्छेत् , इच्छति। वय॑ति हेतुफले । ५। ४ । २५ । हेतुभूते फलभूते च भविष्यत्कालार्थे वर्तमानाद् धातोः सप्तमी था भवति । यदि गुरूनुपासीत शास्त्रान्तं गच्छेत् । यदि गुरूनुपासिष्यते, शास्त्रान्तं सगमिष्यति । वय॑तीति किम् ? दक्षिणेन चेद् याति शकटं न पर्याभवति । कामोक्तावकञ्चिति । ५। ४ । २६ । ___ इच्छाप्रवेदनगम्ये सप्तमी भवति, न तु कच्चितप्रयोगे। कामो मे मुञ्जीत भवान् । अकच्चितीति किम् ? कच्चिद् जीवति मे माता। इच्छार्थे सप्तमीपञ्चम्यौ ।५।४ । २७ ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy