________________
(२१५) नद्यतनार्थाद् धातोः परोक्षा भवति । सुप्तोऽहं किल क्लिलाप । शत्रुञ्जये त्वयाऽकार्य कृतम्, नाहं शत्रुञ्जयं जगाम । .
परोक्षे । ५।२।१२। .. भूतानद्यतनपरोक्षार्थाद् धातोः परोक्षा भवति । धर्म दिदेश तीर्थङ्करः । हशश्वद्युगान्तःपच्छ्ये ह्यस्तनी च । ५ । २ । १३ । '
हशब्दप्रयोगे शश्वति च प्रयुक्त पञ्चवर्षमध्ये प्रच्छ्ये च भूतानद्यतने परोक्षेऽर्थे वर्तमानाद् धातोः शस्तनी परोक्षा च भवति । इति ह चकार, इति हाकरोत् । शश्वदकरोद्, शश्वत् चकार । किमगच्छस्त्वं सिद्धगिरिम् ? किं जगन्थ त्वं सिद्धगिरिम् ? ।
अविवक्षिते । ५ ।२ । १४ । भूतानद्यतने परोक्षे परोक्षत्वेनाविवक्षितेऽर्थे वर्तमानाद् धातोस्तिनी भवति । अहन् कसं किल वासुदेवः ।
वाऽद्यतनी पुरादौ । ५।२। १५ ।। . भूतानद्यतने परोक्षे चापरोक्षे चार्थे वर्तमानाद् धातोः पुरादावुपपदे सति अद्यतनी वा भवति । अवात्सुरिह पुरा जैनाः पक्षे अवसन् , ऊषुर्वा । तदाऽभाषिष्ट गौतमः, पक्षे अभाषत, वभाषे।
स्मे च वर्तमाना। ५ । २ । १६ ।