SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ ( २५४) रात्रं वा अद्यतनः, तस्मिन्नसति भूतार्थाद् धातोर्खस्तनी भवति । कटमकरोत् । ख्याते दृश्ये । ५।२।८। ख्याते-लोकविज्ञाते प्रयोक्तुः शक्यदर्शने भूतानद्यतनेऽर्थे वर्तमानाद् धातोमुस्तनी भवति । महात्मना गान्धिकमोहनलालेन निर्णीतमसहकारधोरणमुत्तीर्णमकरोत् नागपुरे भारतीया महासभा । अरुणत् जर्मनसम्राट् फ्रान्सम् । ख्यात इति किम् । कटं चकार । दृश्य इति किम् । रुरोध कोणिको विशालाम् । अयदि स्मृत्यर्थे भविष्यन्ती । ५। २।९। स्मृत्यर्थे धातावुपपदे सति भूतानद्यतनार्थे वर्तमानाद् धातोभविष्यन्ती भवति, न तु यद्योगे । स्मरसि साधो ! स्वर्गे स्थास्यामः। अयदि किम्-अभिजानासि मित्र ! यत् वाराणस्यामवसाम । वाऽऽकाङ्क्षायाम् । ५।२।१०। .. ___ स्मृत्यर्थधातावुपपदे प्रयोक्तुः क्रियान्तराकाङ्क्षायां भूतानद्यतनार्थाद् धातोर्भविष्यन्ती वा भवति । स्मरसि मित्र ! काशीपाठशालायां वत्स्यामः, अवसाम वा; तत्र सह व्युत्पत्तिवादं पठिष्यामः, अपठाम वा। कृतास्मरणातिनिह्नवे परोक्षा । ५।२।११। कृतस्यापि कार्यस्यास्मरणे सति अत्यन्तनिह्नवे वा गम्ये भूता
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy