________________
( २५३) अथ त्यादिविभक्त्यर्थप्रक्रिया।
श्रुसदवस्भ्यः परोक्षा वा । ५। २ । १ । भूतार्थे वर्तमानेभ्य एभ्यो धातुभ्यः परोक्षा वा भवति । उपशुश्राव पक्षे उपाश्रौषीत् , उपाशृणोत् । उपससाद, पक्षे उपासदत्, उपासीदत् । अनूवास पक्षे अन्ववात्सीत् , अन्ववसत् । ...
अद्यतनी । ५।२।४।। भूतार्थाद् धातोरद्यतनी भवति । अकार्षीत् । ..
विशेषाविवक्षाव्यामिश्रे । ५।२।५। अनद्यतनादिविशेषस्याविवक्षायां व्यामिश्रणे च भूतार्थाद धातोरद्यतनी भवति । रामो वनमगमत् । अद्य ह्यो वाऽभुक्ष्महि ।
रात्रौ वसोऽन्त्ययामास्वप्तर्यद्य । ५।२।६।
रात्रौ भूतार्थवृत्तेर्वसतेरद्यतनी भवति, स चेदर्थो यस्यां रात्रौं भूतस्तस्या एवान्त्ययामं व्याप्य कर्तरि अस्वप्तरि सति भवति । अद्यतनेनैवान्त्ययामेनावच्छिन्नेऽद्यतने चेत् प्रयोगोऽस्ति, नाद्यतनान्तरे । अमुत्रावात्सम् । रात्रावन्त्ययामे मुहूर्तमपि स्वाऐं अमुत्रावसमिति ।
.. अनद्यतने ह्यस्तनी । ५।२।७। आ न्याय्यादुत्थानादा न्याय्याच संवेशनादहरुभयतः सार्ध