________________
(२५६ ) · भूतानद्यतनार्थे वर्तमानाद् धातोः स्मे पुरादौ चोपपदे वर्तमाना भवति । पृच्छति स्म प्रश्नान् विजयधर्मसूरिम् । सन्तीह पुरा जिनालयाः।
ननौ पृष्टोक्तौ सद्वत् । ५ । २ । १७ ।
ननावुपपदे पृष्टस्य प्रतिवचने भूतार्थे वर्तमानाद् धातोः वर्तमानेव वर्तमाना भवति । हे च्छात्र ! किमकार्षीः पाठम् ?, ननु करोमि भोः !, पाठं कुर्वन्तं मां पश्यत ।
नन्यो । ५। २ । १८ । __ . नन्वोरुपपदयोः पृष्टोक्तौ भूतार्थे वर्तमानाद् धातोर्वर्तमाना वा भवति, सा च सद्वद् । किमकार्षीः पटं मैत्र !, न करोमि भोः ! न कुर्वन्तं मां पश्य, नाकार्षम् । नु करोमि, नु कुर्वाणं मां पश्य, न्वकार्षम् ।
सति । ५।२।१९। वर्तमानार्थाद् धातोर्वर्तमाना भवति । अस्ति । पठति । पचति । भक्षयति । अधीमहे । तिष्ठन्ति ।
भविष्यन्ती । ५।३।४। । भविष्यदर्थाद् धातोर्मविष्यन्ती भवति । भोक्ष्यते । गमिष्यति चैत्रः । पक्ष्यते।
अनद्यतने श्वस्तनी । ५। ३।५। नास्त्यद्यतनो यत्र तस्मिन् , अनद्यतने भविष्यदर्थे वर्तमानाद धातोः श्वस्तनी भवति । कर्ता । हर्ता । पक्ता । अनद्यतने