SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ (२६०) चैत्रः ओदनं पचति, ओदनः स्वयमेव सिध्यति । कर्मक्रिययेति किम् ? चैत्रः असिना च्छिनत्ति, असिः स्वयमेव च्छिनत्ति। एकक्रियेति किम् ? स्रवत्युदकं कुण्डिका । कुण्डिकाया उदकं स्रवति। अकर्मक्रिय इति किम् ? भिद्यमानः कुशूलः पात्राणि भिनत्ति। पचि-दुहेः । ३ । ४ । ८७। . एकधातौ कर्मस्थक्रियया पूर्वदृष्टया अकर्मिकया वा सकर्मिकया एकक्रिये कर्मकर्तृरूपे कर्तरि आभ्यां धातुभ्यां जिक्यात्मनेपदानि भवन्ति । पत्र्यते ओदनः स्वयमेव । पच्येत । पच्यताम्। अपच्यत । पेचे । पक्षीष्ट । पक्ता । अपक्ष्यत । अपाचि । दुह्यते गौः स्वयमेव । दुह्येत । दुह्यताम् । अदुह्यत । दुदुहे । धुक्षीष्ट । दोग्धा । धोक्ष्यते । अधोक्ष्यत । अदोहि, अदुग्ध अग्रे विकल्पो वक्ष्यते । न कर्मणा बिच । ३ । ४।८८। पचिदुहिभ्यां कर्मणा योगे अनन्तरोक्ते कर्मकर्तृरूपे कर्तरि जिच् न भवति । उदुम्बरः फलं स्वयमेव पच्यते, अपक्त । दुहधातोस्तु किरादौ पाठाद् झिक्यनिषेधेन दुग्धे । धोक्ष्यते । अदुग्ध गौः पयः स्वयमेव । कर्मणेति किम् ? अपाचि ओदनः स्वयमेव । . . अनन्तरोक्ते इति किम् ? अपाचि उदुम्बरः फलं वायुना। , रुधः।३।४।८९ ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy