________________
(२४९) माणवको वौदनमित्यादयः । येषामकर्मकाणां योगे कालाद्याधाराणां कर्माकर्म च सञ्ज्ञा युगपद् भवति, तेषां सत्यपि कर्मणि भावे प्रत्ययो भवति। मासमास्यते चैत्रेण कर्मसञ्ज्ञात्वाद् द्वितीया, अकर्म सञ्ज्ञात्वाच्च भावे प्रत्ययः । मास आस्यते इत्यपि भवति, कर्मसञ्ज्ञाया अपि सत्त्वेन सकर्मकत्वात् कर्मण्यपि प्रत्ययः । यदा तु कर्माकर्मसज्ञाया वैकल्पिकत्वादभवनं तदाऽऽधारत्वाद् अकर्मकत्वेन भाव एव प्रत्ययः मासे आस्यते । ण्यन्तात् प्रयोज्ये मासमास्यते माणवकश्चैत्रेण ।
इति भावकर्मप्रक्रिया समाप्ता। ......
अथ कर्मकर्तृप्रक्रिया।
एकधातौ कर्मक्रिययैकाकर्मक्रिये । ३ । ४ । ८६ ।
एकस्मिन् धातौ सति पूर्वदृष्टया कर्मस्थया क्रियया एका अभिन्ना संप्रति चाकर्मिका क्रिया यस्य कर्तुस्तस्मिन् कर्तरि अर्थात् कर्मकर्तरि धातोः क्यिात्मनेपदानि भवन्ति यथा पूर्व विहितानि । चैत्रः ओदनं पचति तत्र सौकर्यात् कर्तृव्यापारो न विवक्ष्यते तदा चैत्रः किमोदनं पचति ? ओदनः स्वयमेव पच्यते इति भवति। एवं क्रियते । क्रियेत। क्रियताम् । अक्रियत । चक्रे । कृषीष्ट । कर्तासे । करिष्यते । अकरिष्यत । अकारि । एकधाताविति किम् ।