________________
(२४८) अन्ववातप्त कितवः स्वयमेव । साधुः तपांसि अतप्त । चैत्रण अन्वतप्त । अन्ववातप्त पापः कर्मणा । अन्यत्र अतापि पृथ्वी राज्ञा । आदन्तानां धातूनाम् ' आत ऐः कृऔ' इत्यनेनैकारे
यादेशे च अदायि अदायिषाताम् , अदिषाताम् 'इश्च स्थादः' इतीः । दायिषीष्ट, दासीष्ट । दायिता, दाता । धीयते । धीयेत । धीयताम् । अधीयत । अधायि अधायिषाताम् , अधिषाताम् । धायिषीष्ट, धासीष्ट । शम्यते । शम्येत । शम्यताम् । अशम्यत । अशमि 'मोऽकमि' इत्यादिना निषेधात् न वृद्धिः । ण्यन्तस्य तु "शमोऽदर्शने' इति वा दीर्धे अशमि, अशामि ।
विरुणमोर्वा । ४ । ४ । १०६ । औ ख्णमि च परे लभधातोः स्वरात् परो नोऽन्तो वा भवति । लभ्यते । लभ्येत । लभ्यताम् । अलभ्यत । लेभे लेभाते लेभिरे । लब्धा लब्धारौ लब्धारः । लप्स्यते लप्स्येते लप्स्यन्ते । अलम्भि, अलाभि । यद्यपि सकर्मकाणां कर्मणि प्रत्ययः, तथापि द्विकर्मकत्वे नियमः, तदुक्तम्
"गोणे कर्मणि दुह्यादेः प्रधाने नीहकृषिवहाम् । बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया ॥१॥ प्रयोज्यकर्मण्यन्येषां ण्यन्तानां त्यादयो मताः ।" इति
गौः दुह्यते पयश्चत्रण, धुक्षीष्ट। अजा ग्रामं नीयते । बोध्यते माणवकं धर्मः, माणवको वा धर्मम्। भोज्यते मात्रा माणवकमोदनः,