SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ ( २५१ ) रुबेरनन्तरोक्ते कर्तरि जि न भवति । अरुद्ध गौः स्वयमेव । अन्यत्र अरोधि गौर्गोपालकेन । स्वरदुहो वा । ३ । ४ । ९० । स्वरान्ताद् दुहेश्वानन्तरोक्ते कर्तरि ञिच् वा भवति । अकृत, अकारि कटः स्वयमेव । अदुग्ध, अदोहि गौः स्वयमेव । णिस्नुयात्मनेपदाकर्मकात् । ३ । ४ । ९२ । 1 ण्यन्तात् स्तुश्रिभ्यामात्मनेपदेऽकर्मकेभ्यश्च कर्मकर्तरि जिच् न भवति । मैत्रः चैत्रेणौदनमपीषचत्, ओदनः स्वयमेवापीपचत । प्रास्नोष्ट गौः स्वयमेव । उदशिश्रियत दण्डः स्वयमेव । व्यकृत कटः स्वयमेव । भूषार्थसन किरादिभ्यश्च विक्यौ । ३ । ४ । ९३ । भूषार्थेभ्यः सन्नन्तेभ्यः किरादिभ्यो ण्यादिभ्यश्च कर्मकर्तरि जिक्यौ न भवतः । अलंकुरुते कन्या स्वयमेव । अलमकृत कन्या स्वयमेव । अचिकीर्षिष्ट कटः स्वयमेव । किरादि- किरते, अकीर्ष्ट 1 1 पांशुः स्वयमेव। अगीर्ष्ट, गिरते वा ग्रासः स्वयमेव । ण्यादि - कार - यते कटः स्वयमेव । चोरयते गौः स्वयमेव । प्रस्तुते गौः स्वयमेव । उच्छ्रयते दण्डः स्वयमेव । आत्मनेपदाकर्मकस्य विकुर्वते सैन्धवाः स्वयमेव । करणक्रियया क्वचित् । ३ । ४ । ९४ ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy