________________
(२४२)
प्रत्यभ्यतेः क्षिपः । ३ । ३ । १०२ । . एभ्यः परात् क्षिपेः कर्तरि परस्मैपदं भवति । प्रतिक्षिपति । अभिक्षिपति । अतिक्षिपति बटुम् ।
प्राद् वहः । ३।३।१०३ । अस्मात् कर्तरि परस्मैपदं भवति । प्रवहति। .
परेमपश्च । ३ । ३ । १०४ । परिपूर्वात् मृषेः वृहेश्च कर्तरि परस्मैपदं भवति । परिमृष्यति। परिवहति ।
___ व्याङ्परे रमः । ३।३। १०५ । एभ्यो रमतेः कर्तरि परस्मैपदं भवति । विरमति । आरमति। परिरमति । ' उपाद् वा वक्तव्यम् ' उपरमते, उपरमति भार्याम् । अणिगि प्राणिकर्तृकानाप्याणिगः । ३ । ३ । १०७ ।
अणिगवस्थायां यः प्राणिकर्तृकोऽकर्मकश्च धातुः तस्माद् णिगन्तात् कर्तरि परस्मैपदं भवति । आसयति चैत्रं मैत्रः । अणिगीति किम् ? स्वयमेवारोहयमाणं गजं प्रयुक्ते आरोहयते । अणिगीति गकारः किम् ? चेतयमानं प्रयुक्ते चेतयति । प्राणिकर्तृकादिति किम् ? आतपो व्रीहीन शोषयते । अनाप्यादिति किम् ? कटं कारयते ।
चल्याहारार्थेबुधयुधमुद्रुखनशजनः । ३ । ३ । १०८ ।