________________
( २४१) एभ्यः पराद् यमेः अग्रन्थविषये फलवति कर्तर्यात्मनेपदं भवति । संयच्छते व्रीहीन् । उद्यच्छते भारम् । आयच्छते वस्त्रम्। अग्रन्थ इति किम् ? चिकित्सामुद्यच्छति । फलवतीत्येव संयच्छति।
पदान्तरगम्ये वा । ३ । ३ । ९९ । प्रक्रान्तसूत्रपञ्चके यदात्मनेपदमुक्तं तत्र फलवत्कर्तृकत्वं यदि पदान्तरेण बोध्यते तदाऽऽत्मनेपदं वा भवति । स्वं शत्रु परिमोहयति, परिमोहयते वा। स्वं यज्ञंयनति, यजते वा ।स्वं गां जानाति, जानीते वा। स्वं शत्रुमपवदति, अपवदतै वा । स्वान् ब्रीहीन संयच्छति, संयच्छते वा ।
इत्यात्मनेपदप्रक्रिया।
अथ परस्मैपदप्रक्रिया। 'शेषात् परस्मै । ३ । ३ । १०० । , एभ्यो धातुभ्यो येन विशेषेणात्मनेपदमुक्तं ततोऽन्यस्माद धातोः कर्तरि परस्मैपदं भवति । भवति । पिबति । धयति । अत्ति । जुहोति । दीव्यति । तुदति । सुनोति । रुणद्धि । चोरयति ।
परानोः कुगः।३।३ । १०१। , परानुपूर्वात् कृगः कर्तरि परस्मैपदं भवति । पराकरोति । अनुकरोति । 16