SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ (२४०) मिथ्यायुक्ताद् णिगन्तात् कृगः क्रियाभ्यासे कर्तर्यात्मनेपदं मवति । पदं मिथ्या कारयते । मिथ्येति किम् ? पदं साधु कारयति। अभ्यास इत्येव सकृत् पई मिथ्या कारयति । परिगुहारमायसपाक्षेवदवसदमादरुमा फलवति । ३ । ३ । ९४ । एभ्यो गिगल्नेभ्यः फल्नति कार्यात्मनेपदं भवति । परिमोहयते चैत्रम् । आयामयते सम्म् । आयालयते जिनइत्तन् । पाययते शिशुम् । धापयते बटुम्।वादयते शिशुम् । वासयते पान्थम् । दमयते अश्वम् । आदयते चैत्रेण । रोचयते मैत्रम् । नर्तयते नटम् । ईगितः । ३ । ३ । ९५ । ईदितो गितश्च धातोः फलवति कर्तर्यात्मनेपदं भवति । यजते। कुरुते । फलवतीत्येव यजति पराय । पचन्ति देवदत्ताय । ज्ञोऽनुपसर्गात् । ३ । ३ । ९६ । ज्ञाधातोः फलवति कर्तर्यात्मनेपदं भवति, न तूपसर्गपूर्वात् । गां जानीते । फलवतीत्येव परस्य गां जानीते । वदोऽपात् । ३ । ३ । ९७।। अपपूर्वाद् वदधातोः फलवति कर्तर्यात्मनेपदं भवति । एकान्तमपवदते । फलवतीत्येव स्वभावात् परमपवदति । समुदाङो यमेरग्रन्थे । ३ । ३ । ९८ ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy