SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ ( २३९) व्युदस्तपः । ३ । ३ । ८७। आभ्यां तपतेः कर्मण्यसति स्वेऽङ्गे च कर्मणि कर्तर्यात्मनेपदं भवति । वितपते, उत्तपते सूर्यः । वितपते, उत्तपते पाणिम् । । प्रलम्भे गृधि-वञ्चेः । । । ३ । ८९ । आभ्यां णिगन्ताभ्यां प्रलम्भने वर्तमानाभ्यां कर्तर्यात्मनेपदं भवति । बटुं गर्धयते वञ्चयते वा । प्रलम्भ इति किम् ? श्वानं गर्धयति। लीलिनोऽर्चाभिभवे चाचाकर्तर्यपि । ३ । ३ । ९०। । अभिभव-प्रलम्भनार्थाभ्यामाभ्यां कर्तर्यात्मनेपदं भवति । आकारश्चानयोरकर्तर्यपि भवति । रजोहरणेन आलापयते । श्येनः वर्तिकामपलापयते । कस्त्वामुल्लापयते । स्मिङः प्रयोक्तुः स्वार्थे । ३ । ३ १९१ । प्रयोक्तृतो यः स्वार्थः स्मयः, तदर्थाद् णिगन्तात् स्मिकः कर्तर्यात्मनेपदं भवति, आचाकर्तर्यपि । जटिलो विस्मापयते । प्रयोक्तुः स्वार्थ इति किम् ? रूपेण विस्माययति । बिभेतेीष् च । ३ । ३ । ९२ । प्रयोक्तुः यः स्वार्थस्तदर्थाद् णिगन्ताद् बिभेतेः कर्तर्यात्मनेपदं भवति, आञ्चाकर्तर्यपि, पक्षे भीषादेशः। मुण्डो भीषयते, भाफ्यते । स्वार्थ इत्येव कुञ्चिकया भाययति । मिथ्याकृगोऽभ्यासे । ३ । ३ । ९३ ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy