________________
(२३८)
ज्ञः । ३ । ३ । ८२। नानातेः कर्मण्यसति कर्तर्यात्मनेपदं भवति । सर्पिषो जानीते। कर्मण्यसतीत्येव तैलं सर्पिषो जानाति ।
उपात् स्थः । ३ । ३ । ८३ । उपपूर्वात् तिष्ठतेः कर्मण्यसति कर्तर्यात्मनेपदं भवति । योगे योगे उपतिष्ठते । कर्मणि तु राजानमुपतिष्ठति ।। समो गमृच्छिपच्छिश्रुवित्स्वरत्यर्तिदृशः। ३ । ३ । ८४ ।
सम्पूर्वेभ्य एभ्यः कर्मण्यसति कर्तर्यात्मनेपदं भवति । संगच्छते । समृच्छते । सम्पृच्छते । संशृणुते । संवित्ते। संस्वरते । समियते । सम्पश्यते । कर्मणि सति तु मैत्रं संगच्छति ।
, वे कृगः शब्दे चानाशे । ३ । ३ । ८५ । ___अनाशार्थाद् विपूर्वाद् कृगः कर्तर्यात्मनेपदं भवति, कर्मण्यसति शब्दे च कर्मणि । विकुर्वते सैन्धवाः । क्रोष्टा स्वरान् विकुरुते । शब्दे चेति किम् मृदं विकरोति । अनाश इति किम् ? अध्याय विकरोति । - आङो यमहनः स्वेऽङ्गे च । ३ । ३ १८६ । __ आपराभ्यां यमहन्भ्यां कर्मण्यसति स्वेऽङ्गे च कर्मणि कर्तर्यात्मनेपदं भवति । आयच्छते, आहते । आयच्छते आहते बा पादम् । स्वेऽङ्गे चेति किम् ? आयच्छति रज्जुम् ।