SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ . (२३७) सेवा महामात्रानुपकुरुते । साहसमविचार्य प्रवृत्तिः परदारान् प्रकुरुते । प्रतियत्नः गुणान्तराधानमेधोदकमुपस्कुरुते । प्रकथनम् परापवादान् प्रकुरुते । उपयोगो धर्मादिषु विनियोगः शतं प्रकुरुते। ___ अधेः प्रसहने । ३ । ३ । ७७ । प्रसहने वर्तमानादधेः परात् कृगः कर्तर्यात्मनेपदं भवति । प्रसहनं परेणाभिभवः, परस्य पराजयो वा । तं हा अधिचक्रे । प्रसहनं किम् ? तमधिकरोति । दीप्तिज्ञानयत्नविमत्युपसंभाषणोपमन्त्रणे वदः । ३।३।७८॥ एषु गम्यमानेषु वदतेः कर्तर्यात्मनेपदं भवति । दीप्तिर्भासनं विद्वान् वदते स्याद्वादे । ज्ञाने धीमान् तत्त्वार्थे वदते । यत्ने तपसि वदते । नानामतिः विमतिः धर्मे विवदन्ते । उपसंभाषणमुपसान्त्वनं कर्मकरानुपवदते । उपमन्त्रणं रहस्युपच्छन्दनं कुलभार्यामुपवदते । व्यक्तवाचा सहोक्तौ । ३ । ३ । ७९ । व्यक्तवाचो रूळ्या मनुष्यादयः तेषां सम्भूयोचारणार्थाद वदतेः कर्तर्यात्मनेदं भवति ।सम्प्रवदन्ते ग्राम्याः । व्यक्तवाचामिति किम् ? शुकाः संप्रवदन्ति । 'विवादे वा वाच्यम्' विप्रवदन्ते, विप्रवदन्ति वा मौहर्तिकाः। अनोः कर्मण्यसति । ३ । ३ । ८१। . व्यक्तवाचामर्थे वर्तमानादनुपूर्वाद् वदतेः कर्मण्यसति कर्तर्यात्मनेपदं भवति । अनुवदते। कर्मण्यसतीति किम् ? उक्तमनुवदति।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy