SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ ( २३० ) सन्नन्तात् शृणोतेः कर्तर्यात्मनेपदं भवति, न तु आङ्प्रतिपूर्वात् । गुरुं शुश्रूषते । अनाङ्प्रतेरिति किम् ? आशुश्रूषति । प्रतिशुश्रूषति । स्मृदृशः । ३ । ३ । ७२ । आभ्यां सन्नन्ताभ्यां कर्तर्यात्मनेपदं भवति । सुमूर्षते । दिदृक्षते । शको जिज्ञासायाम् । ३ । ३ । ७३ । जिज्ञासायां वर्तमानात् सन्नन्तात् शके: कर्तर्यात्मनेपदं भवति । विद्यां शिक्षते । जिज्ञासायामिति किम् ? शिक्षति | प्राग्वत् । ३ । ३ । ७४ । सन्प्रत्ययात् पूर्वो यो धातुस्तस्मादिव सन्नन्तात् कर्तर्यात्मनेपदं भवति । शिशयिषते । अश्वेन संचिचरिषते । आमः कृगः । ३ । ३ । ७५ । आमः परादनुप्रयुक्तात् कृग आम एव प्राग् यो धातुस्तस्मादिव कर्तर्यात्मनेपदं भवति । स्याच्च न स्यादिति विधिनिषेधौ । ईहाञ्चक्रे । बिभराञ्चक्रे, बिभराञ्चकार । कृग इति किम् ? ईक्षामास, . ईक्षाम्बभूव । गन्धनावक्षेप सेवा साहस प्रतियत्नमकथनोपयोगे । ३ । ३ । ७६ । एतदर्थात् करोतेः कर्तर्यात्मनेपदं भवति । गन्धनं द्रोहेण परदोषोद्घाटनमुत्कुरुते । अवक्षेपः कुत्सनम् - दुर्वृत्तानवकुरुते ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy