________________
(२४३)
चल्याहारार्थेभ्य इडादिभ्यश्च णिगन्तेभ्यः कर्तरि परस्मैपद भवति । चलयति । कम्पयति । भोनयति, आशयति चैत्रमन्नं मैत्रः। सूत्रमध्यापयति शिष्यम् । रविः पद्मं बोधयति । योधयति । प्रावयति । द्रावयति । स्रावयति । नाशयति । जनयति ।
इति पदविभागमक्रिया समाप्ता ।
अथ भावकमप्रक्रिया।
क्यः शिति । ३ । ४ । ७०। भावकर्मविहिते शिति प्रत्यये परे धातुभ्यः क्यः प्रत्ययो भवति । तत्साप्यानाप्यात् कर्मभावे कृत्यक्तखलाश्च । ३।३।२१ ॥ - तदित्यात्मनेपदं कृत्यक्तखलाश्च प्रत्ययाः सकर्मकाद् धातोः कर्मणि, अकर्मकादविवक्षितकर्मकाच्च भावे भवन्ति । कर्मणि तु युष्मदस्मद्भ्यां सामानाधिकरण्यसम्भवाद् एक-द्वि-बहुवचनादि युष्मदस्मत्सम्बन्धि भवति, भावे तु युष्मदस्मद्भ्यामसामानाधिकरण्यात् अन्यसम्बन्धी एव प्रत्ययस्तत्रापि क्रियायाः प्राधान्यातू तस्याश्चैकत्वाद्भावे एकवचनमेव । 'रिः शक्याशीर्ये' इति रिः क्रियते कटः चैत्रेण । गम्यसे त्वं मैत्रेण। शय्यते मैत्रेण इत्यादीनि उदाहर्तव्यानि । क्रियेते क्रियन्ते । क्रियेत । क्रियताम् । अक्रि