________________
। ( २३३) आडो ज्योतिरुद्गमे । ३ । ३ । ५२ । चन्द्राद्युद्गमार्थादाङ्पूर्वात् क्रमेः कर्तर्यात्मनेपदं भवति। आक्रमते चन्द्रः सूर्यो वा । ज्योतिरुद्दम इति किम् ? आक्रामति कुतुपं बटुः ।
दागोऽस्वास्यप्रसारविकाशे । ३ । ३ । ५३ । स्वास्यप्रसारविकाशादन्यत्रार्थे वर्तमानाद् दागः कर्तर्यात्मनेपदं भवति । आदत्ते विद्याम् । स्वास्यप्रसारविकाशवर्जनं किम् ? उष्ट्रो मुखं व्याददाति । कूलं व्याददाति ।
नु-प्रच्छः । ३ । ३ । ५४ । आपूर्वाभ्यामाभ्यां कर्तर्यात्मनेपदं भवति । आनुते शृगालः । श्रापृच्छते गुरून् ।
____ गमेः क्षान्तौ । ३ । ३ । ५५ । कालहरणार्थादाङ्पूर्वाद् गमेः कतर्यात्मनेपदं भवति । आगमयते गुरुम्-कंचित् कालं प्रतीक्षते । क्षान्ताविति किम् ? विद्यामागमयति ।
हः स्पर्धे । ३ । ३ । ५६ । - आङ्पूर्वाद् ह्वयतेः स्पर्धे गम्ये कर्तर्यात्मनेपदं भवति । मल्लो मल्लमाहुयते ।
संनिवेः । ३ । ३ ।.५७।