________________
( २३२) श्वस्तनीविषये कृपेः कर्तर्यात्मनेपदं वा भवति । कल्प्तासि, कल्पितासे।
क्रमोऽनुपसर्गात् । ३।३।४७ । अविद्यमानोपसर्गात् क्रमेः कर्तर्यात्मनेपदं वा भवति । क्रमते, कामति । उपसर्गात्तु संक्रामति ।
वृत्तिसर्गतायने । ३ । ३ । ४८ । वृत्तिरप्रतिबन्धः, सर्गः उत्साहः, तायनं स्फीतता । एतदर्थात् क्रमः कर्तर्यात्मनेपदं भवति । क्रमतेऽस्य बुद्धिः शास्त्रे अप्रतिहता सती शास्त्रमवगाहत इत्यर्थः । सूत्राय क्रमते उत्सहत इत्यर्थः । नमन्तेऽस्मिन् योगा वर्धन्त इत्यर्थः ।।
परोपात् । ३ । ३ । ४९ । आभ्यामेव परात् वृत्त्याद्यर्थात् क्रमेः कर्तर्यात्मनेपदं भवति । पराक्रमते । उपक्रमते । अन्यत्र तु अनुक्रामति । वृत्त्यादावित्येव 'पराकामति ।
के स्वार्थे । ३ । ३ । ५० । स्वार्थः पादविक्षेपस्तदर्थात् विपूर्वात् क्रमः कर्तर्यात्मनेपदं भवति। साधु विक्रमते गजः । स्वार्थ इति किम् ? गजेन विक्रामति ।
प्रोपादारम्भे । ३ । ३ । ५१ । आरम्भार्थात् प्रपूर्वात् क्रमः कर्तर्यात्मनेपदं भवति । भोक्तुं प्रक्रमते । उपक्रमते । आरम्भ इत्येव प्रक्रामति गच्छतीत्यर्थः ।