________________
(२३१)
क्यङ्गो नवा । ३।३ । ४३ । क्यमन्तात् कर्तयात्मनेपदं वा भवति । लोहितायति, लोहितायते । निद्रायति, निद्रायते ।
युद्भयोऽद्यतन्याम् । ३ । ३।४४ । द्यतादिभ्योऽद्यतन्यां कर्तर्यात्मनेपदं वा भवति । व्यधुतत् , व्यद्योतिष्ट । अरुचत् , अरोचिष्ट । अघुटत् , अघोटिष्ट । अरुटत् , अरोटिष्ट। अलुटत् , अलोटिष्ट। अश्वितत् , अश्वेतिष्ट । अमिदत् ; अमेदिष्ट । अश्विदत् , अक्ष्वेदिष्ट । अस्विदत्, अस्वेदिष्ट । अशुभत् , अशोभिष्ट । अक्षुभत् , अक्षोभिष्ट । अनभत्, अनभिष्ट । अतुभत्, अतुम्भिष्ट । अस्रभत् , अस्त्रम्भिष्ट । अध्वसत् , अध्वंसिष्ट । अभ्रंशत् , अभ्रंशिष्ट । अवृतत्, अवतिष्ट । अस्यदत् , अस्यन्दिष्ट । अवृधत् , अवर्धिष्ट । अशृधत, अशर्धिष्ट । अक्लपत् , अकल्पिष्ट ।
___ वृद्भयः स्यसनोः । ३ । ३ । ४५ । ___ वृतादेः पञ्चतः स्यादौ प्रत्यये सनि च विषये कर्तर्यात्मनेपदं वा भवति । वर्त्यति, वर्तिष्यते । स्यन्त्स्यति, स्यन्दिष्यते, स्यन्त्स्यते । वय॑ति, वर्धिष्यते । शय॑ति, शर्धिष्यते । कल्प्स्यति, कल्पिष्यते।
कृपः श्वस्तन्याम् । ३ । ३ । ४६ ।