SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ (२३०) गत इति किम् पितुः हरति चोरयतीत्यर्थः । ताच्छील्यादिति किम् नटो राममनुहरति । कृष्णमनुहरति । पूजाऽऽचार्यकभृत्युत्क्षेपज्ञानविगणनव्यये नियः ।३।३।३९ । पूनादिषु गम्यमानेषु नयतेः कर्तर्यात्मनेपदं भवति । नयते विद्वान् स्याद्वादे । माणवकमुपनयते । कर्मकरान् उपनयते। शिशुमुदानयते नयते तत्त्वार्थे । कारं विनयन्ते मद्राः । शतं विनयते । एष्विति किम् अनां नयति । कर्तृस्थामूतोऽऽप्यात् । ३।३ । ४० । कर्तृस्थममूर्तमाप्यं कर्म यस्य तस्माद् नयतेः कर्तर्यात्मनेपदं भवति । श्रमं विनयते । कर्तृस्थेति किम् ? शैवो वैष्णवस्य मन्यु विनयति । अमूर्तेति किम् ? श्लेष्माणं विनयति । आष्य इति किम् ? बुद्ध्या विनयति। . शदेः शिति । ३।३ । ४१ । शिद्विषयाच्छदेः कर्तर्यात्मनेपदं भवति । शीयते । शितीति किम् ? शेत्स्यति । म्रियतेरद्यतन्याशिषि च । ३ । ३ । ४२ । .अद्यतनी विषयादाशीविषयाच्छिद्विषयाच्च म्रियतेः कर्तर्यात्म, नेपदं भवति । अमृत अमृषाताम् अमृषत । मृषीष्ट । म्रियते । नियेत । म्रियताम् । अनियत । अन्यत्र ममार ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy