SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ ( २२९) अन्वाइपरेः । ३।३ । ३४ । एभ्यः क्रीडतेः कर्तर्यात्मनेपदं भवति । अनुक्रीडते । आक्रीडते । परिक्रीडते। शप उपलम्भने । ३ । ३ । ३५ । उपलम्भनं प्रकाशनं शपथो वा। तदर्थात् शपतेः कर्तर्यात्मनेपदं भवति । मैत्राय शपते शपथपूर्व स्वाभिप्रायं मैत्रं ज्ञापयतीत्यर्थः । उपलम्भने इति किम् ? मैत्रं शपति । आशिषि नाथः । ३ । ३ ॥३६। आशिष्येव नाथधातोः कर्तर्यात्मनेपदं भवति, नान्यत्र । सर्पिः नाथते सर्पिर्मे भूयादित्याशास्ते । आशिषोऽन्यत्र नायति ईष्टे इत्यर्थः, याचते, उपतापयति वा । भुनजोऽत्राणे । ३।३ । ३७ । - अपालनार्थाद् मुनक्तेः कर्तर्यात्मनेपदं भवति । ओदनं मुङ्क्ते । मुनन इति किम् ? ओष्ठौ निर्मुजति । अत्राण इति किम् ? महीं भुनक्ति । हगो गतताच्छील्ये । ३ । ३ । ३८ । गतं सादृश्यं, ताच्छील्यं तत्स्वभावता सदृशतत्स्वभाव इत्यर्थः, तत्र वर्तमानाद् हृगः कर्तर्यात्मनेपदं भवति । पैतृकम् अश्वा मनु'हरन्ते पितुरागतं सादृश्यं शीलयन्तीत्यर्थः। मातृकं गावोऽनुहरन्ते।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy