SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ (२२८) अपस्किरः । ३ । ३ । ३० । अपात् किरतेः सस्सट्कात् कर्तर्यात्मनेपदं भवति । अपाच्चतुष्पात्पक्षिशुनि हृष्टान्नाश्रयार्थे । ४ । ४ । ९५ । अपपूर्वात् किरतेः चतुष्पदि पक्षिणि शुनि च कर्तरि यथासङ्ख्यं हष्टे अन्नार्थिनि आश्रयार्थिनि चार्थे स्पादिर्भवति । अपस्किरते गौः हृष्टः, कुक्कुटो अन्नार्थी, श्वा आश्रयायी च । नौ विप्किरो वा । ४ । ४ । ९६ । पक्षिणि वाच्ये विपूर्वात् किरतेः स्सडादिर्वा भवति। विष्किरः, विकिरो वा। मात् तुम्पतेर्गवि । ४ । ४ । ९७ । प्रपूर्वात तुम्पतेः गवि कर्तरि स्सडादिर्भवति । प्रस्तुम्पति गौः। उदश्वरः साप्यात् । ३ । ३ । ३१ । उत्पूर्वात साप्यात् चरतेः कर्तर्यात्मनेपदं भवति । मार्गम् । उच्चरते साप्यादिति किम् ? धूम उच्चरति । समस्तृतीयया । ३ । ३ । ३२ । तृतीयान्तेन योगे सति सम्पूर्वाञ्चरतेः कर्तर्यात्मनेपदं भवति । अश्वेन संचरते। क्रीडोऽकूजने । ३ । ३ । ३३ । कूजनमव्यक्तशब्दः, ततोऽन्यार्थात् संपूर्वात् क्रीडतेः कर्तर्यात्मनेपदं भवति । संक्रीडते । समित्येव क्रीडति । अकूनन इति किम् संक्रीडन्ति शकटानि ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy