SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ ( २२७ ) निविशः । ३ । ३ । २४ । निपूर्वाद् विशेरात्मनेपदं भवति । निविशते । उपसर्गादस्योहो वा । ३ । ३ । २५ । उपसर्गपूर्वाभ्यामाभ्यां कर्तर्यात्मनेपदं वा भवति । विपर्यस्यति, विपर्यस्यते । समूहति, समूहते । उत्स्वराद् युजेरयज्ञतत्पात्रे | ३ | ३ | २६ | उत्पूर्वात् स्वरान्तोपसर्गपूर्वाच्च युजेः कर्तर्यात्मनेपदं भवति, न चेद् यज्ञे यत् पात्रं तद्विषयो युज्धात्वर्थः । उद्युक्ते । उपयुङ्क्ते । उत्स्वरादिति किम् ? संयुनक्ति । अयज्ञतत्पात्र इति किम् ? द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति । परिव्यवात् क्रियः । ३ । ३ । २७ । एभ्यः क्रियः कर्तर्यात्मनेपदं भवति । परिक्रीणीते । विक्रीणीते । अवक्रीणीते । उपसर्गादित्येव उपरि क्रीणाति । परावेर्जेः । ३ । ३ । २८ । आभ्यां परात् जयतेः कर्तर्यात्मनेपदं भवति । पराजयते । विजयते । उपसर्गादित्येव बहुवि जयति वनम् । समः क्ष्णोः । ३ । ३ । २९ । सम्पूर्वात् क्ष्णौतेः कर्तर्यात्मनेपदं भवति । संक्ष्णुते शस्त्रम् । समिति किम् ? क्ष्णौति । उपसर्गादित्येव आयसं क्ष्णौति 1 1
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy