________________
( २२६) अथ पदविभागप्रक्रिया।
पराणि कानानशौ चात्मनेपदम् । ३ । ३ । २० ।
सर्वविभक्तीनां पराणि नव नव वचनानि कानानशौ चात्मनेपदानि भवन्ति । ते, आते, अन्ते । से, आथे, ध्वे । ए, वहे, महे इत्यादयः ।
इङितः कर्तरि । ३ । ३ । २२ । ... इदितो डितश्च धातोः कर्तर्यात्मनेपदं भवति । एधते । एधमानः । शेते । शयानः । क्रियाव्यतिहारेऽगतिहिंसाशब्दार्थहसोहबहचान
न्योन्यार्थे । ३ । ३ । २३ । अन्यस्य कर्तुमिच्छाविषयीभूतायाः क्रियाया अन्येन करणं क्रियाव्यतिहारः । तदर्थाद् गतिहिंसाशब्दार्थहसवर्जिताद् हृवहिभ्यां च कर्तर्यात्मनेपदं भवति, न तु अन्योन्येतरेतरपरस्परशब्दयोगे। क्रियाव्यतिहारश्च व्यतिना द्योत्यते इति व्यती प्रयोक्तव्यौ । व्यतिलुनते । व्यतिहरन्ते । व्यतिवहन्ते । गत्यादिवर्जनं किम् ! व्यतिसर्पन्ति, व्यतिहिंसति, व्यतिजल्पन्ति । अनन्योन्यार्थ इति किम् ?-परस्परं व्यतिलुनन्ति ।