SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ (२३४) एभ्यो हुयतेः कर्तर्यात्मनेपदं भवति । संहृयते । निहुयते । विट्ठयते । उपाव । ३ । ३ । ५८। उपाद् हुयतेः कर्तर्यात्मनेपदं भवति । उपहुयते । - यमः स्वीकारे । ३ । ३ । ५९ । उपपूर्वाद् यमेः स्वीकारेऽर्थे कर्तर्यात्मनेपदं भवति । उपयच्छते कन्याम् । उपायंस्त महास्त्राणि। विनिर्देशात् शाटकान् उपयच्छति। देवार्चामैत्रीसंगमपथिककमन्त्रकरणे स्थः । ३ । ३।६० । ___ एषु वर्तमानादुपपूर्वात् तिष्ठतेः कतर्यात्मनेपदं भवति । जिनेन्द्रमुपतिष्ठते । पथिको रथिकान् उपतिष्ठते । यमुना गङ्गामुपतिष्ठते, । वाराणस्यामुपतिष्ठते पन्थाः । ऐन्या ऋचा गार्हपत्यं नाम कुण्डमुपतिष्ठते । 'उपालिप्सायां वा वाच्यम्' । दातृकुलमुपतिष्ठते उपतिष्ठति वा भिक्षुकः । उदोऽनूर्चे । ३ । ३ । ६२ । • ईहा चेष्टा, अनूा या चेष्टा तदर्थात् उत्पूर्वात् तिष्ठते: कर्तर्यात्मनेपदं भवति । मोक्षे उत्तिष्ठते । अनूइँह इति किम् ? आसनादुत्तिष्ठति । 'संविप्रावेभ्योऽपि वाच्यम्' संतिष्ठते, वितिष्ठते, प्रतिष्ठते, अवतिष्ठते । ज्ञीप्सा-स्थेये ३।३।६४।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy