SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ( ३१ ) नवभ्यः पूर्वेभ्य इस्मात् स्मिन् वा । १ । ४ । १६ । पूर्वादिभ्यो नवभ्यः परे ये इ स्मात् स्मिन् आदेशा उक्तास्ते वा स्युः । पूर्वे पूर्वाः । पूर्वस्मात् पूर्वात् । पूर्वस्मिन् पूर्वे । एवं परादीनाम् । शेषं सर्ववत् तीयं ङित्कार्ये वा । १ । ४ । १४ । तीयप्रत्ययान्तं ङित्कार्ये सर्वादिर्वा स्याद् । द्वितीयस्मै द्वितीयाय । द्वितीयस्माद् द्वितीयाद् । द्वितीयस्मिन् द्वितीये | शेषं रामवद् । नेमार्धप्रथमचरमतयायाल्पकतिपयस्य वा । १ । ४ । १० । नेमादीनि नामानि तयायौ प्रत्ययौ तेषां जस इर्वा स्याट् ॥ नेमे नेमाः शेषं सर्ववत् । अर्धे अर्धाः । प्रथमे प्रथमाः । चरमे चरमाः । द्वितये द्वितयाः । द्वये द्वयाः । अल्पे अल्पा: । कतिपये कतिपयाः । शेषं जिनवत् । अकारान्त पुंलिङ्गो मासशब्दः । मासः मासौ मासाः । मासं मासौ । मास निशासनस्य शसादौ लुग् वा । २ । १ । १०० । एषां शसादौ स्यादौ परे लुगन्तादेशो वा स्याद् । मासः मासान् । मासा मासेन । माभ्यां मासाभ्याम् । माभिः मासैः । मासे 1 मासाय । माभ्यां मासाभ्याम् । माभ्यः मासेभ्यः । मासः मासात् । माभ्यां मासाभ्याम् । माभ्यः मासेभ्यः । मास: मासस्य । मासोः
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy