________________
(३०) सर्वस्मिन् सर्वयोः सर्वेषु । हे सर्व हे सौं हे सर्वे । सर्व विश्व उभ उमयट् अन्य अन्यतर इतर डतर डतमत्वद् नेम, समसिमौ सर्वार्थों, पूर्वपरापरदक्षिणोत्तरावराधरा एते सप्त व्यवस्थार्थाः, स्वशब्द आत्मात्मीयार्थः, अन्तरः अपूर्वहियोगार्थः उपसंन्यानार्थश्च, त्यद् तद् यद् एतद् इदम् अदस् एक द्वि युष्मद् अस्मद् भवतु किम् एते सर्वादयोऽसज्ञायां सर्वादिकार्यभानो भवन्ति । उभशब्दो नित्यं द्विवचनार्थः उभौं उभौ उभाभ्यां उभाभ्यां उभाम्यां उभयोः उभयोः । नास्य सर्वादिनिमित्तकं विभक्तिकार्य गणपाठस्तु हेत्वर्थप्रयोगे सर्वविभक्त्यर्थः, उभौ हेतू, उभाभ्यां हेतुभ्याम्, उभयोः हेत्वोः । उभयट् इत्यत्र टकारो ङीप्रत्यार्थः उभयीदृष्टिः। उभयट्शब्दस्य द्विवचनं नास्ति, केषांचिद् मते द्विवचनमपि तन्मते सर्वशब्दवद् रूपाणि । उभयः उभये । उभयम् उभयान। उभयेन उभयैः। उभयस्मै उभयेभ्यः उभयस्माद् उभयस्यः। उभयेषाम् । उभयस्मिन् उभयेषु । अन्यः अन्यौ अन्ये । अन्यम् अन्यौ अन्यान् इत्यादयः । तरोत्तरपदोऽन्यतरशब्दऽव्युत्पन्नः, अन्यतरः अन्यतरौ अन्यतरे इत्यादयः । डतरडतमौ प्रत्ययौ ततस्तदन्ताः कतरकतमादयः शब्दा ग्राह्याः एतौ च स्वार्थिको प्रत्ययाविति प्रकृतिग्रहणेनैव तद्हणसिद्धेः तयोरस्मिन् प्रकरणे ग्रहणमन्येषां स्वार्थिकप्रत्ययान्तानाम् निषेधार्थ पृथक्त्वेन कृतम् । कतरः कतरौ कतरे । कतरम् कतरौ कतरान, कतरेण. कतरस्मै कतरस्माद् कतरेषाम् कतरस्मिन् । एवं कतमः । पूर्वः पूर्वी ।