________________
(२९) । जस इ। १। ४ । ९ । : . - सर्वादेरकारान्तसंबन्धिनो जस इः स्याद् । 'प्रत्ययस्यः' इति सर्वादेशे सर्वे । सर्व सवौं सर्वान् । सर्व टा इति स्थिते टाप्रत्ययस्येनादेशे कृते अवर्णस्येत्यादिना एत्वे कृते । . रवर्णाद् नो णः एकपदेऽनन्त्यस्या
लचटतवर्गशसान्तरे । २ । ३ । ६३ । रेफषकारऋवर्णेभ्यः परस्य रषवर्णैः सहकपदे स्थितस्यानन्त्यस्य नकारस्य णकारादेशः स्यात् । न चेद् निमित्तनिमित्तिनोरन्तरे लकारचीतवर्गाः शसौ च सन्ति । सर्वेण । सर्वाभ्याम् । सर्वैः । सर्व इति स्थिते
सर्वादेः स्मैस्मातौ । १।४।७। अकारान्तसर्वादेः सम्बन्धिनोडेंडस्योः स्थाने यथासंख्य स्मैस्मातौ । स्तः सर्वस्मै सर्वाभ्यां सर्वेभ्यः । सर्वस्मात् सर्वाम्या सर्वेभ्यः । सर्वस्य सर्वयोः । सर्व आम् इति स्थिते । .
अवर्णस्यामः साम् । १ । ४ । १५ । अवर्णान्तस्य सर्वादेरामः स्थाने सामादेशः स्याद् । शेष पूर्ववत् सर्वेषाम् । सर्व ङि इति स्थिते ।
___ स्मिन् । १।४।८। सर्वादेरकारान्तसम्बन्धिनो डे: स्थाने स्मिन् इत्यादेशः स्यात् ।