SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ (२८) इस्वान्तादाबन्तात् स्त्रीदन्ताच्च परस्यामः स्थाने समादेशः स्याद् । जिन नाम् इति जाते दीर्घो नाम्यतिसृचतसृपः । १।४। ४७ । तिसृचतसृषकारान्तरेफान्तवर्जितस्य शब्दसंबन्धिनः समानस्य दीर्घादेशः स्याद् नामि परे । जिनानाम् । सप्तम्येकवचने जिन ङि इति स्थिते ' अवर्णस्येवर्णादिनेति । सुत्रेण एत्वे जिने । जिनयोः । बहुत्वविवक्षायां जिन सु इति स्थिते 'एट बहुस्भोसि' इत्यनेनैत्वे कृते । - नाम्यन्तस्थाकवर्गात् पदान्तः कृतस्य सः शिड्नान्तरेऽपि । २ । ३ । १५ । नाम्यन्तादन्तस्थात् कवर्गाच्च परस्य पदमध्ये स्थितस्य विहितस्य कृतसंबन्धिनो वा सकारस्य षकारादेशः स्याद् , शिटा नकारेण च व्यवधानेऽपि । जिनेषु । संबोधनविवक्षायामेकवचने जिन सि इति स्थिते । - अदेतः स्यमोलक् । १ । ४ । ४४ । . आमंत्रणार्थे वर्तमानादकारान्तादेकारान्ताच परयोः स्यमोः लुक् स्याद् । हे जिन । हे जिनौ । हे जिनाः । एवम् अजित संभवादीनामपि रूपाणि वेदितव्यानि । अकारान्तसादीनां तु विशेषः -पर्वः । सवौं । सर्व जस् इति स्थिते ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy