SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ (२२३) अथ कण्ड्वादिप्रक्रिया। धातोः कण्ड्वादेर्यक् । ३।४।८।। एभ्यो धातुभ्यः स्वार्थे यक प्रत्ययो भवति । कण्ड्ग गात्रविघर्षणे । कण्डूयति, कण्डूयते । महीङ् पूजायाम् महीयते । मन्तु अपराधे रोषे च मन्तूयति । वल्गु पूजामाधुर्ययोः वल्गूयति । असु असूग उपतापे च असूयति, असूयते । लेट् लोट् धौत्यें दीप्तौ । लेट्यति । लोट्यति । इरस् इरज् इरग् ईर्ष्यार्थाः इरस्यति, इरज्यति, ईर्यति, ईर्यते । उषस् प्रभातीभावे, उषस्यति, वेद् धौत्य स्वप्ने च वेद्यति । मेधा आशुग्रहणे, मेधायति । कुषुभ् क्षेपे कुषुभ्यति । मगध परिवेष्टने मगध्यति । नीच दास्ये नीच्यति । तन्तस् पम्पस् दुःखे तन्तस्यति, पम्पस्यति । सुख दुःख तत्क्रियायाम् सुख्यति, दुःख्यति । सपर पूजायाम् सपर्यति । अरर आराकर्मणि अर्यति । भिषज् चिकित्सायाम् भिषज्यति । भिष्ण उपसेवायाम् भिष्णज्यति । इषुध् शरधारणे इषुध्यति । चरण वरण गतौ चरण्यति, वरण्यति । चुरण चौर्ये चुरण्यति । तुरण त्वरायाम् तुरण्यति । भुरण धारणे पोषणे च भुर- प्रयति । गद्गद् वाक्स्ख लने गद्गद्यति। एला केला खेला विलासे । एला यति, केलायति, खेलायति । लेखा लेख्यति । लिट् अल्पकुत्सनयोः लिट्यति । लाट् जीवने लाट्यति । हृणीङ् लज्जा-रोषयोः हणीयते। रेखा
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy